2026-02-23 00:05:20 by ambuda-bot
This page has not been fully proofread.
२५८
भवानीभुजंगम् ।
सुशोणाम्बराबद्धनीवीविराज-
न्महारत्नकाचीकलापं नितम्बम् ।
म्फुरदक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥
लसद्वृत्तमुत्तुङ्गमाणिक्य कुम्भो -
पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्तुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्वाहुदण्डै-
र्ज्वलद्वाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥
भवानीभुजंगम् ।
सुशोणाम्बराबद्धनीवीविराज-
न्महारत्नकाचीकलापं नितम्बम् ।
म्फुरदक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥
लसद्वृत्तमुत्तुङ्गमाणिक्य कुम्भो -
पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्तुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्वाहुदण्डै-
र्ज्वलद्वाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥