2026-02-22 23:56:38 by ambuda-bot
This page has not been fully proofread.
11 eft: 11
॥ शिवभुजंगम् ॥
गलद्दानगण्डं मिलद्भूङ्गषण्डं
चलच्चारुशुण्डं जगत्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥
अनाद्यन्तमाद्यं परं तत्त्वमर्थ
चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महः शैवमीडे ॥ २ ॥
स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
मनोहारि सर्वाङ्गरनोरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं नुमः पञ्चवक्रम् ॥ ३ ॥
॥ शिवभुजंगम् ॥
गलद्दानगण्डं मिलद्भूङ्गषण्डं
चलच्चारुशुण्डं जगत्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥
अनाद्यन्तमाद्यं परं तत्त्वमर्थ
चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महः शैवमीडे ॥ २ ॥
स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
मनोहारि सर्वाङ्गरनोरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं नुमः पञ्चवक्रम् ॥ ३ ॥