2026-02-23 00:05:17 by ambuda-bot
This page has not been fully proofread.
गौरीदशकम् ।
आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
गौरी मम्बा मम्बुरुहाक्षी महमीडे ॥ ४ ॥
मूलाधारादुत्थितवीथ्या विधिरन्धं
सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥
नित्य: शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नी
गौरीमम्बामम्बुरुहाक्षी महमीडे ॥ ६ ॥
यस्या: कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजतादौ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥
२५५
आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
गौरी मम्बा मम्बुरुहाक्षी महमीडे ॥ ४ ॥
मूलाधारादुत्थितवीथ्या विधिरन्धं
सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥
नित्य: शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नी
गौरीमम्बामम्बुरुहाक्षी महमीडे ॥ ६ ॥
यस्या: कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजतादौ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥
२५५