This page has not been fully proofread.

॥ श्रीः ॥
 
॥ गौरीदशकम् ॥
 
---
 
लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
 
गौरी मम्बामम्बुरुहाक्षी महमीडे ॥ १ ॥
 
प्रत्याहारध्यानसमाधिस्थितिभाजां
 
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
 
सत्यज्ञानानन्दमयीं तां तनुरूपां
 
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥
 
चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
 
चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्राद्यचितपादाम्बुजयुग्मां
 
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥