This page has been fully proofread once and needs a second look.

<page>
<ignore>
२५२
 
</ignore>
<ignore>
मन्त्रमातृकापुष्पमालास्तवः ।
 
</ignore>
<verse>
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलै:

पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।

मुक्ता चूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
 

पूर्णा रत्नकलाचिका तव मुद्दे न्यस्ता पुरस्तादुमे ॥ १२॥
 
</verse>
<verse>
कन्याभिः कमनीयकान्तिभिरलंकारामलारार्तिका

पात्रे मौक्तिकचित्रपङ्किक्तिविलसत्कर्पूरदीपालिभिः ।

तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं

मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥
 
</verse>
<verse>
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-
 

दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।

वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-

द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥
 
</verse>
<verse>
ह्रींकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-
 

र्
वाक्यैर्लक्ष्य तनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
 

सल्लापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु
 
ते
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥
 
</verse>
</page>