2026-02-23 00:05:15 by ambuda-bot
This page has not been fully proofread.
२५२
मन्त्रमातृकापुष्पमालास्तवः ।
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलै:
पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ता चूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
पूर्णा रत्नकलाचिका तव मुद्दे न्यस्ता पुरस्तादुमे ॥१२॥
कन्याभिः कमनीयकान्तिभिरलंकारामलारार्तिका
पात्रे मौक्तिकचित्रपङ्किविलसत्कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥
लक्ष्मीमौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-
दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-
द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥
ह्रींकारत्रयसंपुटेन मनुनोपास्ये त्रयमौलिभि-
वाक्यैर्लक्ष्य तनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥