2026-02-25 06:08:18 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>मन्त्रमातृकापुष्पमालास्तवः ।
कहा</ignore>
<ignore>२५१</ignore>
<verse>कह्लारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
२५१
ज
र्जातीचम्पकमालतीव कुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैःक्लृकॢप्ताः स्रजो मालिका:
संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥ ८ ॥
</verse>
<verse>हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बघ्ध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥
</verse>
<verse>लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु संभावितैः ।
चित्रैर्हाटक पुत्रिकाकरधृतैर्गव्यै र्घृतैर्वर्धितै-
'
र्दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥
</verse>
<verse>ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥
</verse>
</page>
<ignore>मन्त्रमातृकापुष्पमालास्तवः ।
कहा
<ignore>२५१</ignore>
<verse>कह्लारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
२५१
ज
र्जातीचम्पकमालतीव
केतक्या करवीरकैर्बहुविधैः
संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥ ८ ॥
<verse>हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
र्यैर्भृङ्गावलिनीलकुन्तलभरैर्ब
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥
<verse>लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु संभावितैः ।
चित्रैर्हाटक