This page has been fully proofread once and needs a second look.

<page>
<ignore>
२५०
 
</ignore>
<ignore>
मन्त्रमातृकापुष्पमालास्तवः ।
 
</ignore>
<verse>
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
 

प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।

गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
 

स्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ४ ॥
 
</verse>
<verse>
ह्रींकाराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितै

रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णाणांशुकम् ।

मुक्तासंततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं
 

दत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ५ ॥
 
</verse>
<verse>
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां

हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मी

मञ्जीरौ
मणिकुण्डले मकुटमध्प्यर्धेन्दुचूडामणि
णिं
नासामौक्तिकमङ्गुलीयकटकोकौ काथ्वीञ्चीमपि स्वीकुरु ॥ ६ ॥
 
</verse>
<verse>
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
 

कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।

गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
 

कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥
 
</verse>
</page>