This page has not been fully proofread.

२५०
 
मन्त्रमातृकापुष्पमालास्तवः ।
 
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालक्षणे
 
प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मत्रितैः
 
स्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ४ ॥
 
ह्रींकाराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितै
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णाशुकम् ।
मुक्तासंततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं
 
दत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ५ ॥
 
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मी मणिकुण्डले मकुटमध्यर्धेन्दुचूडामणि
नासामौक्तिकमङ्गुलीयकटको काथ्वीमपि स्वीकुरु ॥ ६ ॥
 
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
 
कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
 
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥