2026-02-23 00:05:13 by ambuda-bot
This page has not been fully proofread.
२४८
नवरत्नमालिका ।
आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणी
आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् ।
मूलमन्त्र मुखमण्डलां मुदितनादबिन्दुनवयौवनां
मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥
कालिका तिमिरकुन्तलान्तचनभृङ्गमङ्गलविराजिनीं
चूलिका शिखरमालिकावलय मल्लिकासुरभिसौरभाम् ।
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां
कालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥
नित्यमेव नियमेन जल्पतां
भुक्तिमुक्तिफलदामभीष्टदाम् ।
शंकरेण रचितां सदा जपे-
न्नामरत्ननवरत्नमालिकाम् ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नवरत्नमालिका संपूर्णा ॥