2026-02-25 03:25:54 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p>॥ श्रीः ॥
॥ नवरत्नमालिका ॥
</p>
<verse>हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं
कारणेशवर मौलिकोटिपरिकल्प्य मानपदपीठिकामम् ।
कालकालफणिपाशबाणधनुरङ्ककुशा मरुणमेखलां
फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ १॥
</verse>
<verse>गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं
इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ २ ॥
</verse>
<verse>स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां
मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ ३॥
</verse>
</page>
<p>॥ श्रीः ॥
॥ नवरत्नमालिका ॥
<verse>हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं
कारणेशवर
कालकालफणिपाशबाणधनुरङ्