2026-02-25 03:15:31 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२४२
</ignore>
<ignore>कल्याणवृष्टिस्तवः ।
</ignore>
<verse>लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कंदर्पकोटिसुभगास्त्वयि भक्तिभाज:
जः
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥
</verse>
<verse>ह्रींकारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
</verse>
<verse>हन्तुः पुरामधिगलं परिपीयमानः
क्रूरः
कथं न भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्ध
धं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥
</verse>
<verse>सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥
</verse>
</page>
<ignore>२४२
<ignore>कल्याणवृष्टिस्तवः ।
<verse>लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कंदर्पकोटिसुभगास्त्वयि भक्तिभा
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥
<verse>ह्रींकारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
<verse>हन्तुः पुरामधिगलं परिपीयमानः
क्रूरः
नाश्वासनाय यदि मातरिदं तवार्
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥
<verse>सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥
</page>