2026-02-25 03:13:29 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<subtitle>॥ श्रीः ॥
</subtitle>
<title>॥ कल्याणवृष्टिस्तवः ॥
</title>
<verse n="1">कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
1
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥
</verse>
<verse>एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सांनिध्य मुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २ ॥
</verse>
<verse>ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एक:कः स एवंव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥
</verse>
<ignore>S. S. 16
</ignore>
</page>
<subtitle>॥ श्रीः ॥
<title>॥ कल्याणवृष्टिस्तवः ॥
<verse n="1">कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
1
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥
<verse>एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सांनिध्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २ ॥
<verse>ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
ए
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥
<ignore>S. S. 16
</page>