2026-02-23 06:15:25 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ ललितापञ्चरत्नम् ॥
<verse>प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ १ ॥
<verse>प्रातर्भजामि ललिताभुजकल्पवल्लीं
रक्ताङ्गुलीयल
माणिक्य
पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ २ ॥
<verse>प्रातर्नमामि ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं
पद्माङ्कुशध्वज
</page>