2026-03-05 05:35:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२३४
देवीचतुःषष्टचुपचारपूजास्तोत्रम् ।
</ignore>
<verse>तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥
</verse>
<verse>अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥
</verse>
<verse>क्षणमथ जगदम्ब मञ्चकेऽस्मि -
न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥
</verse>
<verse>मुक्ता कुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥
</verse>
<verse>एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्य:
यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥
</verse>
</page>
<ignore>२३४
<verse>तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥
<verse>अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥
<verse>क्षणमथ जगदम्ब मञ्चकेऽस्मि
न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥
<verse>मुक्ता
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥
<verse>एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥
</page>