This page has not been fully proofread.

२३४
 
देवीचतुःषष्टचुपचारपूजास्तोत्रम् ।
 
तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥
 
अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥
 
क्षणमथ जगदम्ब मञ्चकेऽस्मि -
 
मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्धं
 
सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥
 
मुक्ता कुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
 
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥
 
एषा भक्त्या तव विरचिता या मया देवि पूजा
 
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।
 
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्य:
 
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥