2026-03-05 05:33:03 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>देवीचतुःषष्टयुपचारपूजास्तोत्रम् ।
२३३
</ignore>
<verse>पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥
</verse>
<verse>रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥
</verse>
<verse>चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा
।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षषं तनोतु ॥ ६२ ॥
</verse>
<verse>अथ मणिमयमञ्चकाभिरामे
कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मि -
न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥
</verse>
<verse>एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि -
न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ।
</verse>
</page>
<ignore>देवीचतुःषष्टयुपचारपूजास्तोत्रम् ।
<verse>पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥
<verse>रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥
<verse>चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्
<verse>अथ मणिमयमञ्चकाभिरामे
कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मि
न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥
<verse>एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि -
न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ।
</page>