This page has not been fully proofread.

देवीचतुःषष्टयुपचारपूजास्तोत्रम् ।
 
२३३
 
पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥
 
रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥
 
चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
 
कनककमलमालां कण्ठदेशेऽर्पयित्वा
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्ष तनोतु ॥ ६२ ॥
 
अथ मणिमयमकाभिरामे
 
कनकमयवितानराजमाने ।
 
प्रसरदगरुधूपधूपितेऽस्मि -
 
भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥
 
एतस्मिन्मणिखचिते सुवर्णपीठे
 
त्रैलोक्याभयवरदौ निधाय हस्तौ ।
 
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि -
 
पर्यङ्के कनकमये निषीद मातः ॥ ६४ ।