2026-03-05 05:29:09 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
२३१</ignore>
<verse>शतपत्रयुतैः स्वभावशीतै-
रति सौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तै-
र्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥
</verse>
<verse>भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरङ्गभूमि:मिः ।
इयमतिरुचिरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः ॥ ५३ ॥
</verse>
<verse>मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला
भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥
</verse>
<verse>भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥
२३१
</verse>
</page>
<ignore>देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
<verse>शतपत्रयुतैः स्वभावशीतै-
रति
भ्रमरीमुखरीकृतैरनन्तै-
र्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥
<verse>भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरङ्गभू
इयमतिरुचिरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः ॥ ५३ ॥
<verse>मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला
भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥
<verse>भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥
२३१
</page>