This page has not been fully proofread.

देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
 
शतपत्रयुतैः स्वभावशीतै-
 
रति सौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तै-
 
व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥
 
भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरङ्गभूमि: ।
 
इयमतिरुचिरा नटी नटन्ती
 
तव हृदये मुदमातनोतु मातः ॥ ५३ ॥
 
मुखनयनविलासलोलवेणी-
 
विलसितनिर्जितलोलभृङ्गमालाः ।
 
युवजनसुखकारिचारुलीला
 
भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥
 
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
 
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
 
अनुपमितसुवेषा वारयोषा नटन्ति
 
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥
 
२३१