2026-03-05 05:27:37 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२३०
देवीचतुःषष्टचुपचारपूजास्तोत्रम् ।
</ignore>
<verse>मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिङ्किणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुद्दे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥
</verse>
<verse>द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि ॥ ४९ ॥
</verse>
<verse>हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।
अतिबहु चतुरङ्गसैन्यमेत-
द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥
</verse>
<verse>परिघीकृत सप्तसागरं
बहुसंपत्सहितं मयाम्ब ते विपुलम् ।
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥
</verse>
</page>
<ignore>२३०
<verse>मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिङ्किणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मु
<verse>द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि ॥ ४९ ॥
<verse>हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।
अतिबहु चतुरङ्गसैन्यमेत-
द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥
<verse>परिघीकृत
बहुसंपत्सहितं मयाम्ब ते विपुलम् ।
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥
</page>