2026-03-05 05:26:15 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>देवीचतुःषष्टचुपचारपूजास्तोत्रम् । २२९
</ignore>
<verse>शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥ ४४ ॥
</verse>
<verse>मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥
</verse>
<verse>इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥
</verse>
<verse>प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंग:गः ॥ ४७ ॥
</verse>
</page>
<ignore>देवीचतुःषष्टचुपचारपूजास्तोत्रम् । २२९
<verse>शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥ ४४ ॥
<verse>मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥
<verse>इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥
<verse>प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरं
</page>