2026-02-23 00:04:00 by ambuda-bot
This page has not been fully proofread.
देवीचतुःषष्टचुपचारपूजास्तोत्रम् । २२९
शरदिन्दुमरीचिगौरवर्णै-
मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥ ४४ ॥
मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
राजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंग: ॥ ४७ ॥
शरदिन्दुमरीचिगौरवर्णै-
मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥ ४४ ॥
मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
राजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंग: ॥ ४७ ॥