2026-03-05 05:22:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२२८
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
</ignore>
<verse>महति कनकपालेत्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान्बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥
</verse>
<verse>सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥
</verse>
<verse>अथ बहुमणिमित्श्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥
</verse>
<verse>मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाहाह्लादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥
</verse>
</page>
<ignore>२२८
<verse>महति कनकपा
डमरुसदृशरूपान्बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥
<verse>सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥
<verse>अथ बहुमणिमि
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥
<verse>मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रया
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥
</page>