This page has not been fully proofread.

२२८
 
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
 
महति कनकपाले स्थापयित्वा विशालान्
 
डमरुसदृशरूपान्बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥
 
सविनयमथ दत्वा जानुयुग्मं धरण्यां
 
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
 
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥
 
अथ बहुमणिमित्रैमौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
 
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥
 
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाहादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
 
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥