This page has not been fully proofread.

देवीचतुःषष्टचुपचारपूजास्तोत्रम् । २२७
 
कूश्माण्डकोशातकिसंयुतानि
 
जम्बीरनारङ्गसमन्वितानि ।
सवीजपूराणि सबादराणि
 
फलानि ते देवि समर्पयामि ॥ ३६ ॥
 
कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मात: कैतकपत्त्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः
 
सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥
 
एलालवङ्गादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि ।
 
ताम्बूलवल्लीदलसंयुतानि
 
पूगानि ते देवि समर्पयामि ॥ ३८ ॥
 
ताम्बूलनिर्जितसुतप्तसुवर्णवर्ण
 
स्वर्णाक्तपूगफलमौक्तिक चूर्णयुक्तम् ।
 
सौवर्णपात्रनिहितं खदिरेण सार्धं
 
ताम्बूलम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥