2026-03-05 05:37:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२२६</ignore>
<pignore>देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।</pignore>
<verse>श्रीरमेतदिदमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
संभ्रमेण परिपीयतां मुहुः ॥ ३२ ॥</verse>
<verse>उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुङ्कमेन
हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥</verse>
<verse>अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं
शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥</verse>
<verse>जम्ब्वाम्ररम्भाफलसंयुतानि
द्राक्षाफलाक्षौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि ॥ ३५ ॥</verse>
</page>
<ignore>२२६</ignore>
<
<verse>श्रीरमेतदिदमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
संभ्रमेण परिपीयतां मुहुः ॥ ३२ ॥</verse>
<verse>उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुङ्कमेन
हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥</verse>
<verse>अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं
शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥</verse>
<verse>जम्ब्वाम्ररम्भाफलसंयुतानि
द्राक्षाफलाक्षौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि ॥ ३५ ॥</verse>
</page>