This page has been fully proofread once and needs a second look.

<page>
<ignore>
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
 
२२५</ignore>
<verse>
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवास संमिश्रितैः

कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।

श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
 
२२५
 

र्
धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥
 

 
</verse>
<verse>
रत्नालंकृत हेम पात्रनिहितैर्गोसर्पिषा लोडितै-

र्
दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।

आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा

मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥
 
</verse>
<verse>
मातस्त्वां दधिदुग्धपायस महाशाल्यन्न संतानिका:
काः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।

एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरी संस्कृतैः
 

शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥
 
:
 
</verse>
<verse>
सापूपसूपदधिदुग्धसिताघृतानि
 

सुस्वादुभक्तपरमान्नपुरःसराणि ।
 

शाकोल्लसन्मरिचिजीरकबाहिकानि
 

भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥
 
</verse>
<ignore>
S. S. 15
 
</ignore>
</page>