2026-03-05 05:03:42 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२२४
देवीचतुःषष्टचुपचारपूजास्तोत्रम् ।
</ignore>
<verse>सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
त्सिन्दूरं मे हृदयकमले हर्षवर्षषं तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥
</verse>
<verse>मन्दारकुन्दकरवीरलवङ्गपुष्पै-
स्त्वां देवि संततमहं परिपूजयामि ।
जातीजपावकुलचम्पककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥
</verse>
<verse>मालतीवकुलहेमपुष्पिका-
काञ्चनार करवीरकैतकै : ःकैः ।
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदम्ब ते वपुः ॥ २६ ॥
</verse>
<verse>पारिजातशत पत्रपाटलै-
र्मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सादरं
पूजयामि जगदम्ब ते वपुः ॥ २७ ॥
</verse>
</page>
<ignore>२२४
<verse>सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
त्सिन्दूरं मे हृदयकमले हर्षवर्
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥
<verse>मन्दारकुन्दकरवीरलवङ्गपुष्पै-
स्त्वां देवि संततमहं परिपूजयामि ।
जातीजपावकुलचम्पककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥
<verse>मालतीवकुलहेमपुष्पिका-
काञ्चनार
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदम्ब ते वपुः ॥ २६ ॥
<verse>पारिजातशत
र्मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सादरं
पूजयामि जगदम्ब ते वपुः ॥ २७ ॥
</page>