2026-03-05 04:57:57 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२२२.
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
</ignore>
<verse>नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके ।
सविलासमिदं पदद्वयं
'
कृपया देवि तयोर्निधीयताम् ॥ १६ ॥
</verse>
<verse>बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्वचम्पकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥
</verse>
<verse>सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥
म</verse>
<verse>मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- .
त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥
</verse>
</page>
<ignore>२२२
<verse>नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके ।
सविलासमिदं पदद्वयं
'
कृपया देवि तयोर्निधीयताम् ॥ १६ ॥
<verse>बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥
<verse>सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥
म
<verse>मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-
त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥
</page>