This page has not been fully proofread.

२२२.
 
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
 
नवरत्नमये मयार्पिते
 
कमनीये तपनीयपादुके ।
 
सविलासमिदं पदद्वयं
 
'कृपया देवि तयोर्निधीयताम् ॥ १६ ॥
 
बहुभिरगरुधूपैः सादरं धूपयित्वा
 
भगवति तव केशान्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्वम्पकैश्चार्चयित्वा
 
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥
 
सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
 
विन्यस्तं कनकशलाकया मया यत् ।
 
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्
 
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥
 
मरे पयोनिधाय रुचिरां विन्यस्य काचीं कटौ
 
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
 
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- .
 
ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥