This page has been fully proofread once and needs a second look.

<page>
<ignore>
देवीचतुःषष्टचुपचारपूजास्तोत्रम् । २२१
 
</ignore>
<verse>
मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
 

भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।

केशानामलकैर्विशोध्य विशदान्कस्तूरिकादविञ्चितैः

स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥१२॥,
 
</verse>
<verse>
दधिदुग्धघृतैः समाक्षिकैः
 

सितया शर्करारया समन्वितैः ।
 

स्नपयामि तवाहमादरा-
 

ज्
जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥
 
</verse>
<verse>
एलोशीर सुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-

र्
मणिक्या मलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।

मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादा-
 

त्
स्नानं ते परिकल्पयामि जननि स्नेहाश्त्त्वमङ्गीकुरु ॥
 
</verse>
<verse>
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
 

मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।

मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं

तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥
 
</verse>
</page>