This page has not been fully proofread.

देवीचतुःषष्टचुपचारपूजास्तोत्रम् । २२१
 
मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
 
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।
केशानामलकैर्विशोध्य विशदान्कस्तूरिकादवितैः
स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥१२॥,
 
दधिदुग्धघृतैः समाक्षिकैः
 
सितया शर्करा समन्वितैः ।
 
स्नपयामि तवाहमादरा-
 
जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥
 
एलोशीर सुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-
मणिक्या मलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादा-
 
स्नानं ते परिकल्पयामि जननि स्नेहाश्वमङ्गीकुरु ॥
 
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
 
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥