This page has been fully proofread once and needs a second look.

<page>
<ignore>
२२०
 
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
 
</ignore>
<verse>
गन्धपुष्पयव सर्षपदूर्वा-
 

संयुतं तिलकुशाक्षतमिश्रम् ।

हेमपात्रनिहितं सह रत्नै-
 

रर्घ्यमेतदुररीकुरु मातः ॥ ८ ॥
 
</verse>
<verse>
जलजद्युतिना करेण जाती-

फलतक्कोललवङ्गगन्धयुक्तैः ।
 

अमृतैरमृतैरिवातिशीतै-
 

र्
भगवत्याचमनं विधीयताम् ॥ ९ ॥
 
</verse>
<verse>
निहितं कनकस्य संपुटे
 

पिहितं रत्नपिधानकेन यत् ।
 

तदिदं जगदम्ब तेऽर्पितं
 

मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥
 
</verse>
<verse>
एतञ्च्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
 

न्यस्तं रत्नमये सुवर्णचषकें भृङ्गैर्भ्रमद्भिर्वृतम् ।

सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया
 

केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥
 
</verse>
</page>