2026-02-23 00:03:31 by ambuda-bot
This page has not been fully proofread.
२२०
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
गन्धपुष्पयव सर्षपदूर्वा-
संयुतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रनै-
रर्घ्यमेतदुररीकुरु मातः ॥ ८ ॥
जलजद्युतिना करेण जाती-
फलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
भगवत्याचमनं विधीयताम् ॥ ९ ॥
निहितं कनकस्य संपुटे
पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पितं
मधुपर्क जननि प्रगृह्यताम् ॥ १० ॥
एतञ्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषकें भृङ्गैर्भ्रमद्भिर्वृतम् ।
सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥