This page has not been fully proofread.

त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २१७
 
विज्ञप्तीवधेहि मे सुमहता यत्नेन ते संनिधिं
प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु ।
चित्तं त्वत्पद्भावने व्यभिचरेदृग्वाक्च मे जातु चे-
तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥
 
काहं मन्दमतिः क्व चेदमखिलैरे कान्तभक्तैः स्तुतं
ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् ।
कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं
 
स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥
 
नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया ।
निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२७ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्री गोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
त्रिपुरसुन्दरीमानसपूजास्तोत्रं
संपूर्णम् ॥