This page has been fully proofread once and needs a second look.

<page>
<ignore>
सुब्रह्मण्यभुजंगम् ।
 
</ignore>
<ignore>
१३
 
</ignore>
<verse>
कलत्रं. सुता बन्धुवर्ग:गः पशुर्वा
 

नरो वाथ नारी गृहे ये मदीयाः ।

यजन्तो नमन्तः स्तुवन्तो भवन्तं
 

स्मरन्तश्च ते सन्तु सर्वे
 
कुमार ॥ २८ ॥
 
</verse>
<verse>
मृगाः पक्षिणो दंशका ये च दुष्टा-
 

स्तथा व्याधयो बाधका ये मदतेङ्गे
 

भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
 

विनश्यन्तु ते चूर्णितक्रौञ्च शैल ॥ २९ ॥
 
</verse>
<verse>
जनित्री पिता च स्वपुत्रापराधं
 

हेते न किं देवसेनाधिनाथ ।
 

अहं चातिबालो भवान् लोकतात:
 
तः
क्षमस्वापराधं समस्तं महेश ॥ ३० ॥
 
</verse>
<verse>
नमः केकिने शक्तये चापि तुभ्यं
 

नमश्छाग तुभ्यं नमः कुक्कुटा
 

नमः सिन्धवे सिन्धुदेशाय तुभ्यं
 

पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥ ३१ ॥
 
</verse>
</page>