This page has not been fully proofread.

सुब्रह्मण्यभुजंगम् ।
 
१३
 
कलत्रं. सुता बन्धुवर्ग: पशुर्वा
 
नरो वाथ नारी गृहे ये मदीयाः ।
यजन्तो नमन्तः स्तुवन्तो भवन्तं
 
स्मरन्तश्च ते सन्तु सर्वे
 
कुमार ॥ २८ ॥
 
मृगाः पक्षिणो दंशका ये च दुष्टा-
 
स्तथा व्याधयो बाधका ये मदते ।
 
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
 
विनश्यन्तु ते चूर्णितक्रौञ्च शैल ॥ २९ ॥
 
जनित्री पिता च स्वपुत्रापराधं
 
सहते न किं देवसेनाधिनाथ ।
 
अहं चातिबालो भवान् लोकतात:
 
क्षमस्वापराधं समस्तं महेश ॥ ३० ॥
 
नमः केकिने शक्तये चापि तुभ्यं
 
नमश्छाग तुभ्यं नमः कुक्कुटा ।
 
नमः सिन्धवे सिन्धुदेशाय तुभ्यं
 
पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥ ३१ ॥