This page has been fully proofread once and needs a second look.

<page>
<ignore>
१२
 
</ignore>
<ignore>
सुब्रह्मण्यभुजंगम् ।
 
</ignore>
<verse>
अहं सर्वदा दुःखभारावसन्नो
 

भवान्दीनबन्धुस्त्वदन्यं न याचे ।

भवद्भक्तिरोधं सदा कॢप्बाधं
 

ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ २४ ॥
 
</verse>
<verse>
अपस्मारकुष्ठक्षयार्श: प्रमेह-
 

ज्वरोन्माद गुल्मादिरोगा महान्तः ।

पिशाचाश्च सर्वे भवत्पत्रभूतिं
 

विलोक्य क्षणात्तारकारे द्रवन्ते ॥ २५ ॥
 
</verse>
<verse>
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-
 

र्
मुखे मे पवित्रं सदा तच्चरित्रम् ।
 

करे तस्य कृत्यं वपुस्तस्य भृत्यं
 

गुहे सन्तु लीना ममाशेषभावाः ॥ २६ ॥
 
</verse>
<verse>
मुनीनामुताहो नृणां भक्तिभाजा-
 

मभीष्टप्रदाः सन्ति सर्वत्र देवा: ।
 

नृणामन्त्यजानामपि स्वार्थदाने
 

गुहाद्देवमन्यं न जाने न जाने ॥ २७ ॥
 
</verse>
</page>