This page has not been fully proofread.

सुब्रह्मण्यभुजंगम् ।
 
प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे
 
फोद्वारि भयो कम्पिगात्रे 1
प्रयाणोन्मुखे मय्यनाथे तदानीं
 
द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ २० ॥
 
कृतान्तस्य दूतेषु चण्डेषु कोपा-
 
दह च्छिन्द्र भिन्द्वीति मां तर्जयत्सु ।
 
मयूरं समारुह्य मा भैरिति त्वं
 
पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ २१ ॥
 
प्रणम्यासकृत्पादयोस्ते पतित्वा
 
प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।
न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
 
न कार्यान्तकाले मनागप्युपेक्षा ॥ २२ ॥
 
सहस्राण्डभोक्ता त्वया शूरनामा
 
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
 
ममान्तर्हृदिस्थं मनः क्लेशमेकं
 
११
 
न हंसि प्रभो किं करोमि क यामि ॥ २३ ॥