This page has been fully proofread once and needs a second look.

<page>
<ignore>
१९२
 
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
 
</ignore>
<verse>
सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां
 

जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् ।

सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा

संपश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः ॥ २४ ॥
 
</verse>
<verse>
उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते

भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।

नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
 

प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम्
 
</verse>
<verse>
पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयो:
योः
सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय ।

तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं

साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थी कुरु ॥
 
</verse>
<verse>
मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे

देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् ।

सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोव्ञ्छनं
 

द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥ २७ ॥
 
</verse>
</page>