2026-03-26 04:53:00 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
१९१
</ignore>
<verse>प्रमत्तवारुणीर सैर्विघूर्णमानलोचना :
नाः
प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः ।
उपोढकज्जलच्छविच्छटाविराजिविग्रहाः
कपालशूलधारिणी:णीः स्तुवे त्वदीयदूतिकाः ॥ २० ॥
</verse>
<verse>स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुर:रः स्थापितै-
द
र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना ।
स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया
युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥
</verse>
<verse>आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं
दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् ।
धूपोद्गारिसुगन्धिसंभ्रममिलगद्भृङ्गावलीगुञ्जितं
कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥२२॥
</verse>
<verse>कनकरचिते पञ्चप्रेतासनेन विराजिते
मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे ।
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे
हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥ २३ ॥
</verse>
</page>
<ignore>त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
<verse>प्रमत्तवारुणीर
प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः ।
उपोढकज्जलच्छविच्छटाविराजिविग्रहाः
कपालशूलधारि
<verse>स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पु
द
र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना ।
स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया
युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥
<verse>आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं
दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् ।
धूपोद्गारिसुगन्धिसंभ्रममिल