2026-02-23 00:02:36 by ambuda-bot
This page has not been fully proofread.
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
१९१
प्रमत्तवारुणीर सैर्विघूर्णमानलोचना :
प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः ।
उपोढकज्जलच्छविच्छटाविराजिविग्रहाः
कपालशूलधारिणी: स्तुवे त्वदीयदूतिकाः ॥ २० ॥
स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुर: स्थापितै-
दपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना ।
स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया
युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥
आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं
दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् ।
धूपोद्गारिसुगन्धिसंभ्रममिलगङ्गावलीगुञ्जितं
कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥२२॥
कनकरचिते पञ्चप्रेतासनेन विराजिते
मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे ।
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे
हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥ २३ ॥