2026-03-26 04:50:31 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१९०
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
</ignore>
<verse>इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा-
न्योषिद्रूपधरान्स्वदिक्षु निहितान्संचिन्त्य हृत्पङ्कजे ।
शङ्के श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-
न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥
</verse>
<verse>गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती-
र्द्वाराभ्यासकृत स्थितीरिह सरस्वत्यादिकाः पूजयनन् ।
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां
मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥
</verse>
<verse>कस्तूरिकाश्यामलकोमलाङ्गी
गीं
कादम्बरीपानमदालसाङ्गीमम् ।
वामस्तनालिङ्गितरत्नवीणां
मातङ्गकन्यां मनसा स्मरामि ॥ १८ ॥
</verse>
<verse>विकीर्णचित्कुरोत्करे विगलिताम्बराडम्बरे
मदाकुलितलोचने विमलभूषणोद्भासिनि ।
तिरस्करिणि तावकं चरणपङ्कजं चिन्तय-
न्करोमि पशुमण्डलीमलिक मोहदुग्धाशयाम् ॥ १९ ॥
</verse>
</page>
<ignore>१९०
<verse>इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा-
न्योषिद्रूपधरान्स्वदिक्षु निहितान्संचिन्त्य हृत्पङ्कजे ।
शङ्के श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-
न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥
<verse>गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती-
र्द्वाराभ्यासकृत
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां
मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥
<verse>कस्तूरिकाश्यामलकोमलाङ्
कादम्बरीपानमदालसाङ्गी
वामस्तनालिङ्गितरत्नवीणां
मातङ्गकन्यां मनसा स्मरामि ॥ १८ ॥
<verse>विकीर्णचि
मदाकुलितलोचने विमलभूषणोद्भासिनि ।
तिरस्करिणि तावकं चरणपङ्कजं चिन्तय-
न्करोमि पशुमण्डलीमलिक
</page>