This page has not been fully proofread.

त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
 
१८९
 
विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै-
 
निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः ।
 
विश्विविष्णुशंकरादिभिर्मुदा तवाम्बिके
 
प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२ ॥
 
ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगण:
 
प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः ।
 
प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो
 
मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥
 
प्रवेशनिर्गमाकुलैः स्वकृत्य रक्तमानसै-
 
बहि: स्थितामरावली विधीयमानभक्तिभिः ।
विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः
 
सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥
 
सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-
 
गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः ।
असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो
 
मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥ १५ ॥