2026-03-26 04:46:19 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१८८
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
का</ignore>
<verse>क्वापि प्रोद्भटपद्मरागकिरणत्व्रातेन संध्यायितं
कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।
मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-
न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥
</verse>
<verse>उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया ।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-
र्वल्गावल्गितहस्त मस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥
</verse>
<verse>मणिसदनसमुद्यत्कान्तिधारानुरके
क्ते
वियति चरमसंध्याशङ्किनो भानुरथ्याः ।
शिथिलितगत कुप्यत्सूत हुंकारनादैः
कथमपि मणिगेहादुच्चकै रुन्च्चलन्ति ॥ १० ॥
</verse>
<verse>भक्त्या किं
नु समर्पितानि बहुधा रत्नानि पाथोधधिना
किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥
</verse>
</page>
<ignore>१८८
का
<verse>क्वापि प्रोद्भटपद्मरागकिरण
कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।
मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-
न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥
<verse>उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया ।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-
र्वल्गावल्गितहस्त
<verse>मणिसदनसमुद्यत्कान्तिधारानुर
वियति चरमसंध्याशङ्किनो भानुरथ्याः ।
शिथिलितगत
कथमपि मणिगेहादुच्चकै
<verse>भक्त्या किं
किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥
</page>