2026-03-26 04:42:54 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । १८७
</ignore>
<verse>जातीचम्पकपाटलादिसुमनः सौरभ्य संभावितं
ह्रींकार ध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् ।
आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं
चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥ ४ ॥
</verse>
<verse>परिपतितपरागैः पाटलक्षोणिभागो
विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः ।
अलिशुकपिकराजीकूजितै:तैः श्रोत्रहारी
स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥
</verse>
<verse>रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ
स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते ।
क्षोणीमण्डल हे महारविलसत्संसारपारप्रद
प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६ ॥
</verse>
<verse>उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः
सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७ ॥
</verse>
</page>
<ignore>त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । १८७
<verse>जातीचम्पकपाटलादिसुमनः
ह्रींकार
आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं
चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥ ४ ॥
<verse>परिपतितपरागैः पाटलक्षोणिभागो
विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः ।
अलिशुकपिकराजीकूजि
स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥
<verse>रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ
स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते ।
क्षोणीमण्डल
प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६ ॥
<verse>उद्यत्कान्तिकलापकल्पितनभः
सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७ ॥
</page>