2026-02-23 00:02:30 by ambuda-bot
This page has not been fully proofread.
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । १८७
जातीचम्पकपाटलादिसुमनः सौरभ्य संभावितं
ह्रींकार ध्वनिकण्ठकोकिलकुहूप्रोल्लासितद्रुमम् ।
आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं
चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥ ४ ॥
परिपतितपरागैः पाटलक्षोणिभागो
विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः ।
अलिशुकपिकराजीकूजितै: श्रोत्रहारी
स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥
रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ
स्फूर्जत्तोरणभारहारकमहाविस्तारहाद्युते ।
क्षोणीमण्डल हे महारविलसत्संसारपारप्रद
प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६ ॥
उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः
सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७ ॥