This page has not been fully proofread.

त्रिपुरसुन्दरीवेदपादस्तोत्रम् । १८५
 
यत्रैव यत्रैव मनो मदीयं
 
तत्रैव तत्रैव तव स्वरूपम् ।
 
यत्रैव यतैव शिरो मदीयं
 
तत्रैव तत्रैव पदद्वयं ते ॥ ११० ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्री गोविन्द भगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
त्रिपुरसुन्दरीवेदपादस्तोत्रं
 
संपूर्णम् ॥