This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८२
 
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
 
</ignore>
<verse>
तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते

मौलिश्रेण्या भूभुजस्तं नमन्ति ।

यः स्तौति त्वामम्ब चिद्वल्लिवाचा
 

तं धीरासः कवय उन्नयन्ति ॥ ९५ ॥
 
</verse>
<verse>
वैरिवधैञ्चोघैर्विष्णुरुद्रेन्द्रवृबृन्दै-

र्
दुर्गाकालीभैरवीशक्तिसंधैः ।
घैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना
 

न तत्र सूर्यो भाति न चन्द्रतारकम् ॥ ९६ ॥
 
</verse>
<verse>
भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
 

त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि ॥ ९७ ॥
 
</verse>
<verse>
पुष्पवत्पुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
 

यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥ ९८ ॥
 
</verse>
<verse>
वश्ये विद्रुमसंकाशां विद्यायां विशदप्रभाम् ।
 
त्वामम्

त्वामम्ब
भावयेद्भूत्यै सुवर्णाणां हेममालिनीम् ॥ ९९ ॥
 
</verse>
</page>